|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.4. अध्यायः 004
Mahabharata - Drona Parva - Chapter Topics
भीष्मानुज्ञातस्य कर्णस्य युद्धायाऽऽगमनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-1-0x(4268)(44767)
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः।
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः॥ 7-1-1(44768)
भीष्म उवाच। 7-1-2x(4269)
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा॥ 7-1-2(44769)
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान्।
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण़्डजाः॥ 7-1-3(44770)
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्॥ 7-1-4(44771)
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा।
कर्ण राजपुरं गत्वा काम्भोजा निर्जितास्त्वया॥ 7-1-5(44772)
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया॥ 7-1-6(44773)
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः॥ 7-1-7(44774)
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे।
निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया 7-1-8(44775)
तत्रतत्र च संग्रामे दुर्योधनहितैषिणा।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा॥ 7-1-9(44776)
यथा दुर्योधनस्यातः सज्ञातिकुलबान्धवः।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव॥ 7-1-10(44777)
शिवेशनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः।
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम्॥ 7-1-11(44778)
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा॥ 7-1-12(44779)
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम्।
सद्भिः सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि॥ 7-1-13(44780)
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितः।
कुरूणां पालय बलं यथा दुर्योधनस्तथा॥ 7-1-14(44781)
`यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान्।
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा'॥ 7-1-15(44782)
निशम्य वचनं तस्य चरणावभिवाद्य च।
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति॥ 7-1-16(44783)
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्।
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत्॥ 7-1-17(44784)
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः।
उपागतं महाबाहुं सर्वानीकपुरःसरम्॥ 7-1-18(44785)
7-1-19(44786)
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम्।
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्॥
Mahabharata - Drona Parva - Chapter Footnotes
5-1-3 अर्थपतिः प्रधानस्वामी॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|